यु॒वां पू॒षेवा॑श्विना॒ पुरं॑धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् ।
हु॒वे यद्वां॑ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
यु॒वाम् । पू॒षाऽइ॑व । अ॒श्वि॒ना॒ । पुर॑म्ऽधिः । अ॒ग्निम् । उ॒षाम् । न । ज॒र॒ते॒ । ह॒विष्मा॑न् ।
हु॒वे । यत् । वा॒म् । व॒रि॒व॒स्या । गृ॒णा॒नः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
हेअश्विनौ युवांपुरन्धिर्बहुप्रज्ञः पूषेवपोषकइव हविष्मान्हविर्युक्तोजरतेस्तौति यद्वा पुरन्धिः बहू- नांधारयित्रीपूषेवपृथिवीव द्वितीयार्थेप्रथमा तांयथास्तौतितद्वत् किमिव अग्निमुषांन अग्निमुषसंचय- थातथायुवामपिप्रातरनुवाकाश्विनशस्त्रयोराश्विनक्रतुवदाग्नेयोषस्ययोरपिसद्भावादितिभावः कदे- त्याह यत् यदावरिवस्यावरिवस्ययापरिचर्ययायुक्तोगृणानः स्तोतावांयुवांहुवेस्तौति तदायजमानो- पिजवतइत्यर्थः विद्यामेत्यादिगतम् ॥ ९ ॥
अभूदिदमित्यष्टर्चंतृतीयंसूक्तमाश्विनंजागतं अवविद्धमितिषष्ठी तद्वान्नरानासत्यावित्यष्टमीचोभे- त्रिष्टुभौ अभूदिदमष्टौषठ्यन्त्येत्रिष्टुभावित्यनुक्रमणिका प्रातरनुवाकाश्विनशस्त्रयोर्जागतेछन्दस्यस्य- विनियोगः—तथाचसूत्रितम् अभूदिदंयोवांपरिज्मेतित्रीणि ।