मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् २

संहिता

तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।
तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥

पदपाठः

तव॑ । अ॒ग्ने॒ । हो॒त्रम् । तव॑ । पो॒त्रम् । ऋ॒त्विय॑म् । तव॑ । ने॒ष्ट्रम् । त्वम् । अ॒ग्नित् । ऋ॒त॒ऽय॒तः ।
तव॑ । प्र॒ऽशा॒स्त्रम् । त्वम् । अ॒ध्व॒रि॒ऽय॒सि॒ । ब्र॒ह्मा । च॒ । असि॑ । गृ॒हऽप॑तिः । च॒ । नः॒ । दमे॑ ॥

सायणभाष्यम्

हेअग्ने होत्रं होतुःकर्मशस्त्रयाज्यादिलक्षणंयदस्तितदपितवैव त्वदर्थमित्यर्थः तथापोत्रं पोतुः कर्म- यदस्ति तद्पितवैव तथाऋत्वियंप्राप्तकालमार्त्विज्यंतवैवनेष्ट्रं नेष्टुःकर्मप्रस्थितयाज्यादिरूपं तव हेअग्ने त्वमग्नित् आग्नीध्रश्चत्वमेवासि तथाऋतायतोयज्ञमिच्छतस्तवैवप्रशास्त्रं यत्प्रशास्तुर्मैत्रावरुणस्यकर्म- तत् हेअग्ने त्वमध्वरीयसि अध्वरंयज्ञंकामयसेअध्वर्युर्भवसीत्यर्थः तथाध्वर्युशब्दव्युत्पत्तेः अध्वर्युरध्व- रयुरध्वरंकामयतइतिवेतिहिनिरुक्तम् । तथाब्रह्माचब्राह्मणाच्छंस्यप्यसि तथानोदमेस्मद्यज्ञगृहेगृह- पतिश्चासीति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७