मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् ३

संहिता

त्वम॑ग्न॒ इन्द्रो॑ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्य॑ः ।
त्वं ब्र॒ह्मा र॑यि॒विद्ब्र॑ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं॑ध्या ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । इन्द्रः॑ । वृ॒ष॒भः । स॒ताम् । अ॒सि॒ । त्वम् । विष्णुः॑ । उ॒रु॒ऽगा॒यः । न॒म॒स्यः॑ ।
त्वम् । ब्र॒ह्मा । र॒यि॒ऽवित् । ब्र॒ह्म॒णः॒ । प॒ते॒ । त्वम् । वि॒ध॒र्त॒रिति॑ विऽधर्तः । स॒च॒से॒ । पुर॑म्ऽध्या ॥

सायणभाष्यम्

हेअग्ने त्वंयतः सतांवृषभोवर्षितासि अतइन्द्रोसि यद्वा सतांसाधूनां इन्द्रोसि कामानांवर्षितासि त्वंविष्णुरसि यतउरुगायः बहुभिर्गीयमानः अतोनमस्यः नमस्कार्यश्चभवसि हेब्रह्मणस्पते परिवृढ- स्यकर्मणोमन्त्रस्यवापालयितः त्वं यतः रयिवित् गवादिधनस्यवेत्ता अतोब्रह्मासि हेविधर्तः विविध- कारक वैश्वानरूपाग्ने त्वंपुरन्ध्याबहुप्रकारयाबुद्भ्यासचसे सहवर्तसे सर्वदाबुद्भ्यास्तूयसइत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७