मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् ४

संहिता

त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्य॑ः ।
त्वम॑र्य॒मा सत्प॑ति॒र्यस्य॑ स॒म्भुजं॒ त्वमंशो॑ वि॒दथे॑ देव भाज॒युः ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । राजा॑ । वरु॑णः । धृ॒तऽव्र॑तः । त्वम् । मि॒त्रः । भ॒व॒सि॒ । द॒स्मः । ईड्यः॑ ।
त्वम् । अ॒र्य॒मा । सत्ऽप॑तिः । यस्य॑ । स॒म्ऽभुज॑म् । त्वम् । अंशः॑ । वि॒दथे॑ । दे॒व॒ । भा॒ज॒युः ॥

सायणभाष्यम्

हेअग्ने त्वंयतोधृतव्रतः धारितकर्मासि अतोवरुणोराजासि यतोदस्मः शत्रूणामुपक्षपयिताईड्यः स्तुत्यश्च अतोत्वंमित्रः एतन्नामकोदेवोसि यतः त्वंसत्पतिः सतामभिमतप्रदानेनपालयिता अतः अय- माभवसि दातृत्वंचार्यम्णोलिङ्गं अर्यमेतितमाहुर्योददातीतियस्यार्यम्णोदानंसंभुजंसन्ततभुजंव्याप- कंभवति यद्वा यस्यधनंसंभुजं सम्यग्भोगायसाधुग्रहीतॄणां तथात्वंअंशः सूर्यमूर्त्यन्तरभूतएतन्नामको- देवोसि तादृशहेदेव विदथेस्मदीयेयज्ञे भाजयुः फलानांभाजयिताप्रापगितासि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७