मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् ७

संहिता

त्वम॑ग्ने द्रविणो॒दा अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा अ॑सि ।
त्वं भगो॑ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । द्र॒वि॒णः॒ऽदाः । अ॒र॒म्ऽकृते॑ । त्वम् । दे॒वः । स॒वि॒ता । र॒त्न॒ऽधाः । अ॒सि॒ ।
त्वम् । भगः॑ । नृ॒ऽप॒ते॒ । वस्वः॑ । ई॒शि॒षे॒ । त्वम् । पा॒युः । दमे॑ । यः । ते॒ । अवि॑धत् ॥

सायणभाष्यम्

हेअग्ने त्वं अरंकृतेत्वामलंकुर्वतेयजमानायद्रविणोदाः हिरण्य्स्यदातासि देवोद्योतमानः सविता- सर्वस्यसत्कर्मसुप्रेरकस्त्वंरत्नधारमणीयानांधनानांमणिमुक्तादीनांधारयितासि तथा हेनृपते नृणां- पालकाग्ने त्वंभगोभजनीयःसन् व्स्वोवसुनोधनस्य ईशिषे समर्थोभवसिदातुं योयजमानोदमेयज्ञगृ- हेतेत्वांअविधत् परिचरति तस्यपायुः पालकस्त्वमसि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८