मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् ८

संहिता

त्वाम॑ग्ने॒ दम॒ आ वि॒श्पतिं॒ विश॒स्त्वां राजा॑नं सुवि॒दत्र॑मृञ्जते ।
त्वं विश्वा॑नि स्वनीक पत्यसे॒ त्वं स॒हस्रा॑णि श॒ता दश॒ प्रति॑ ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । दमे॑ । आ । वि॒श्पति॑म् । विशः॑ । त्वाम् । राजा॑नम् । सु॒ऽवि॒दत्र॑म् । ऋ॒ञ्ज॒ते॒ ।
त्वम् । विश्वा॑नि । सु॒ऽअ॒नी॒क॒ । प॒त्य॒से॒ । त्वम् । स॒हस्रा॑णि । श॒ता । दश॑ । प्रति॑ ॥

सायणभाष्यम्

हेअग्ने विश्पतिंयजमानानांपालकं त्वां विशः यजमानादमेस्वकीयेयज्ञगृहे आ आसादयन्ति उपस- र्गवशाद्योग्यक्रियाध्याहारः तथाकृत्वाराजानंदीप्यमानं सुविदत्रंशोभनदानं अस्मदनुकूलचेतस्कंसुध- नंवात्वांऋञ्चते प्रसाधयन्ति ऋञ्चतिःप्रसाधनकर्मेतियास्कः । यतएवं ततोहेस्वनीक शोभनज्वालारू- पसेन त्वंविश्वानिसर्वाणिहवींषीतिशेषः षष्ठ्यर्थेद्वितीया विश्वेषांहविषामाज्यसोमपुरोडाशादीनां पत्यसे ईश्वरोभवसि ईश्वरनामैतत् इरज्यतिपत्यतइतितन्नामसुपाठात् यद्वा पतिभावमाचरसि त्वंतु- सहस्राणिशताशतानिदशएतत्संख्याकानिप्रतिएतत्संख्याकानामभिमतसाधनानांप्रतिनिधिरित्यर्थः प्रतिःप्रतिनिधिप्रतिदानयोरितिकर्मप्र्वचनीयत्वं तैर्यत्फलंभवति तत् त्वयालभ्यतइत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८