मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् ९

संहिता

त्वाम॑ग्ने पि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या॑ तनू॒रुच॑म् ।
त्वं पु॒त्रो भ॑वसि॒ यस्तेऽवि॑ध॒त्त्वं सखा॑ सु॒शेवः॑ पास्या॒धृषः॑ ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । पि॒तर॑म् । इ॒ष्टिऽभिः॑ । नरः॑ । त्वाम् । भ्रा॒त्राय॑ । शम्या॑ । त॒नू॒ऽरुच॑म् ।
त्वम् । पु॒त्रः । भ॒व॒सि॒ । यः । ते॒ । अवि॑धत् । त्वम् । सखा॑ । सु॒ऽशेवः॑ । पा॒सि॒ । आ॒ऽधृषः॑ ॥

सायणभाष्यम्

हेअग्ने पितरंपालकंत्वांनरोनेतारोयजमानाः इष्टिभिरेषणसाधनैर्यागैर्यजन्तइतिशेषः पितृवत् पा- लनाययजन्तइत्यर्थः तथातनूरुचंशरीराणांदीपकंशरीरेषुदीप्यमानंवैश्वानरात्मनात्वंभ्रात्रायभ्रातृत्वा- यसौभ्रात्राय शम्या कर्मनामैतत् कर्मणायजन्तइतिशेषः यद्वोभयत्रवक्ष्यमाणेनाविधदित्यनेनसंबन्धः हेअग्ने योनरस्तेत्वांअविधत् परिचरति तस्यत्वंपुत्रोभवसि पुत्रवत्पालयिताभवसि तथात्वं सखास- मानख्यानः सखिवद्धितकारीसुशेवः शेवइतिसुखनाम सुष्ठुसुखकारीसन् आधृषः आधर्षकात्मा पासि- रक्षसि पितृत्वकामायपितृत्वेनभ्रातृत्वकामायभ्रातृत्वेनपुत्रत्वकामायपुत्रत्वकामायपुत्रस्थानीयोभव- सि त्रिप्रकारेणरक्षसीत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८