मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् ११

संहिता

त्वम॑ग्ने॒ अदि॑तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार॑ती वर्धसे गि॒रा ।
त्वमिळा॑ श॒तहि॑मासि॒ दक्ष॑से॒ त्वं वृ॑त्र॒हा व॑सुपते॒ सर॑स्वती ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । अदि॑तिः । दे॒व॒ । दा॒शुषे॑ । त्वम् । होत्रा॑ । भार॑ती । व॒र्ध॒से॒ । गि॒रा ।
त्वम् । इळा॑ । श॒तऽहि॑मा । अ॒सि॒ । दक्ष॑से । त्वम् । वृ॒त्र॒ऽहा । व॒सु॒ऽप॒ते॒ । सर॑स्वती ॥

सायणभाष्यम्

हेअग्ने देव त्वंदाशुषेहविर्दत्तवतेजमानायादितिरखण्डयिता परिपालयितासि यद्वा अदीनाभूमि- रसि किञ्च त्वंहोत्राहोमनिष्पादिकाभारतीभरतस्यादित्यस्यसंबन्धिनीरश्मिरूपासतीगिरास्तुत्याव- र्धसेप्रवृद्धोभवसि किञ्च त्वंशतहिमा हिमशब्दःकालोपलक्षकः अपरिमितकाला नित्या इळा भूमिर- सि तादृशीसतीदक्षसेदानायसमर्थाभवसि तिङउत्तरत्वादनिघातः तथाहेवसुपतेधनपालक वृत्रहापा- पादेर्हन्तात्वंसरस्वती सरणवान्वायः तत्संबन्धिनीएतन्नियामकामाध्यमिकावागसि आदित्याग्निवा- यूनांसंबन्धिन्योभारतीळासरस्वत्याख्यायास्तिस्रोदेव्यःसन्ति ताअपित्वमेवेत्यर्थः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९