मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् १२

संहिता

त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑ ।
त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । सुऽभृ॑तः । उ॒त्ऽत॒मम् । वयः॑ । तव॑ । स्पा॒र्हे । वर्णे॑ । आ । स॒म्ऽदृशि॑ । श्रियः॑ ।
त्वम् । वाजः॑ । प्र॒ऽतर॑णः । बृ॒हन् । अ॒सि॒ । त्वम् । र॒यिः । ब॒हु॒लः । वि॒श्वतः॑ । पृ॒थुः ॥

सायणभाष्यम्

हेअग्ने त्वंसुभृतः सुष्ठुपोषितःसन् उत्तमंनिरतिशयंवयः अन्नमायुष्यंवात्वमसि तत्संपादकोसीत्यर्थः तथातवस्पार्हेस्पृहणीयेवर्णेलोहितशुक्लादिलक्षणेसन्दृशिसम्यग्दर्शनीयेश्रियः ऎश्वर्याणिकान्तयोवा- आश्रित्यवर्तन्ते उपसर्गश्रुतेर्योग्यक्रियाध्याहारः किञ्च त्वंवाजः अन्नंतत्साधकत्वात्ताच्छब्द्यं अन्नसाध- कइत्यर्थः प्रतरणः प्रतारयितापापात् अतएवबृहन् महानसि तथात्वंरयिर्धनरूपोसि बहुलःसर्वविष- यबाहुल्योपेतः विश्वतः सर्वतः पृथुः विस्तीर्णः प्रख्यातइत्यर्थः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९