मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् १४

संहिता

त्वे अ॑ग्ने॒ विश्वे॑ अ॒मृता॑सो अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ।
त्वया॒ मर्ता॑सः स्वदन्त आसु॒तिं त्वं गर्भो॑ वी॒रुधां॑ जज्ञिषे॒ शुचि॑ः ॥

पदपाठः

त्वे इति॑ । अ॒ग्ने॒ । विश्वे॑ । अ॒मृता॑सः । अ॒द्रुहः॑ । आ॒सा । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् ।
त्वया॑ । मर्ता॑सः । स्व॒द॒न्ते॒ । आ॒ऽसु॒तिम् । त्वम् । गर्भः॑ । वी॒रुधा॑म् । ज॒ज्ञि॒षे॒ । शुचिः॑ ॥

सायणभाष्यम्

हेअग्ने त्वेत्वयि विश्वेसर्वे अमृतासः अमरणधर्माणः अद्रुहः अद्रोग्धारोदेवाआसात्वदीये नास्येना- हुतंहविरदन्ति भक्षयन्ति आस्यशब्दस्यतृतीयैकवचनेपद्दन्नोमासित्यादिनाआसन्नादेशः ऊडिदंपदादी- तिविभक्तेरुदात्तत्वं तथा मर्तासोमनुष्याःअपित्वयासाधनभूतेनासुतिंरसरूपमन्नादिकं स्वदन्ते आ- स्वादयन्ति त्वमेववीरुधांलतादीनांगर्भोगर्भस्थानीयः तेषांमध्येवस्थानात् वसुः सर्वेषांनिवासभूतः शुचिः शुद्धःसन् जज्ञिषे उत्पादयसिसस्याद्यन्नम् ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९