मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् १५

संहिता

त्वं तान्त्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने॑ सुजात॒ प्र च॑ देव रिच्यसे ।
पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा॑पृथि॒वी रोद॑सी उ॒भे ॥

पदपाठः

त्वम् । तान् । सम् । च॒ । प्रति॑ । च॒ । अ॒सि॒ । म॒ज्मना॑ । अग्ने॑ । सु॒ऽजा॒त॒ । प्र । च॒ । दे॒व॒ । रि॒च्य॒से॒ ।
पृ॒क्षः । यत् । अत्र॑ । म॒हि॒ना । वि । ते॒ । भुव॑त् । अनु॑ । द्यावा॑पृथि॒वी इति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥

सायणभाष्यम्

हेअग्ने त्वंमज्मनाबलेनतान् प्रसिद्धान्देवान् संचासि सङ्गच्छसि तैःसहितोपिभवसि तथा साम- र्थ्येन प्रतिचासि प्रत्येकंतैर्विभिन्नःप्रतिनिधिर्वाभवसि प्रतिस्वीकारसमयेतैः सहितोभवसि वियुक्तश्च- भवसीत्यर्थः हेसुजात शोभनजनन मन्त्रसहितमथनेनोत्पन्नत्वादग्नेःसुजन्मत्वं तादृशाग्ने हेदेव प्ररि- च्यसेच तैर्बलेनचाधिकोभवसि आधिक्येकारणमाह यत् यस्मात्—अत्रास्मिन्यज्ञेपृक्षः सर्वमप्यन्नं व्यत्ययेनबहुवचनं तेतवैवविभुवत् समर्थंभवति महिनामाहात्म्येन यतोमहत्त्वमस्ति अतइत्यर्थः कुत्रेतितदुच्यते रोदसी सर्वनिरोदनस्वभावे उभेद्यावापृथिवीद्यावापृथिव्यावनुतेप्रतितयोर्मध्येव्याप्त- इत्यर्थः त्वयिहुतमन्नेत्वन्महत्त्वेनलोकत्रयेव्याप्तमित्यर्थः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९