मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् १६

संहिता

ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ ।
अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

ये । स्तो॒तृऽभ्यः॑ । गोऽअ॑ग्राम् । अश्व॑ऽपेशसम् । अग्ने॑ । रा॒तिम् । उ॒प॒ऽसृ॒जन्ति॑ । सू॒रयः॑ ।
अ॒स्मान् । च॒ । तान् । च॒ । प्र । हि । नेषि॑ । वस्यः॑ । आ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

अनयाहोतास्तुतिनिगमव्याजेनाभिमतमाशास्ते हेअग्ने सूरयोमेधाविनः प्रेरयितारोवाये यजमा- नाः स्तोतृभ्यःस्तुतिकर्तृभ्योगोअग्रांगावोग्रगामिन्योयस्यास्तादृशींगोप्रमुखांअश्वपेशसं पेशइतिरूप- नाम अश्वेननिरूपणीयांएतद्द्वयंप्राधान्याभिप्रायं गौश्चाश्वश्चाजाश्चेतिदक्षिणापरिगणनेषुगवाश्वयोः प्राथम्यात् तादृशींरातिंउपसृजन्तिददते तान्यजमानानस्मांश्चर्त्विजोवस्वोवसीयः श्रेष्ठंस्वर्गादिस्था- नंआसर्वतः प्रहिणेषि प्रकर्षेणनयसिखलुनयेत्यर्थः हिप्रसिद्धौ वयंचसुवीराशोभनपुत्रादिसहिताविद- थेयज्ञेब्रुहत् महत् मन्त्रजातंवदेम उञ्चारयामः स्तुमइत्यर्थः ॥ १६ ॥

यज्ञेनवर्धतेतित्रयोदशर्चंद्वितीयंसूक्तं मण्डलद्रष्टुर्गृत्समदस्यार्षं मण्डलादिष्वाग्नेयमितिपरिभाषया- ग्नेयं तुशब्दानुकर्षादिदमपिजागतम् यज्ञेनसप्तोनेत्यनुक्रान्तम् प्रातरनुवाकाश्विनशस्त्रयोर्जागतेछन्द- स्यस्यविनियोगः सूत्रंतुपूर्वसूक्तएवोक्तम् तथाचतुर्विंशिकेतृतीयसवनेजातवेदस्य निविद्धानीयमिदं यज्ञेनवर्धतेत्याग्निमारुतमितिसूत्रितत्वात् पृष्ठ्याभिप्लवषडहयोर्द्वितीयेहन्यपि जातवेदस्यनिविद्धा- नमिदम् चातुर्विंशिकंतृतीयसवनमिति चतुर्विंशादतिदिष्टत्वात् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९