मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २, ऋक् १

संहिता

य॒ज्ञेन॑ वर्धत जा॒तवे॑दसम॒ग्निं य॑जध्वं ह॒विषा॒ तना॑ गि॒रा ।
स॒मि॒धा॒नं सु॑प्र॒यसं॒ स्व॑र्णरं द्यु॒क्षं होता॑रं वृ॒जने॑षु धू॒र्षद॑म् ॥

पदपाठः

य॒ज्ञेन॑ । व॒र्ध॒त॒ । जा॒तऽवे॑दसम् । अ॒ग्निम् । य॒ज॒ध्व॒म् । ह॒विषा॑ । तना॑ । गि॒रा ।
स॒म्ऽइ॒धा॒नम् । सु॒ऽप्र॒यस॑म् । स्वः॑ऽनरम् । द्यु॒क्षम् । होता॑रम् । वृ॒जने॑षु । धूः॒ऽसद॑म् ॥

सायणभाष्यम्

हेयजमानाऋत्विजोवा यूयं जातवेदसंजातानांवेदितारंजातधनंजातप्रज्ञंवाग्निं यज्ञेनयागेन वर्धत- प्रवर्धयत सामान्येनोक्त्वाविशेषेणाह—हविषाचरुपुरोडाशादिनातनाविस्तृतयागिरास्तुत्याचयजध्वं पूजयध्वं कीदृशंतं समिधानंसमिध्यमानं सुप्रयसंशोभनान्नं स्वर्नरंस्वर्गेनेतव्यायजमानायस्यतादृशं यद्वा स्वरितिसर्वपर्यायः स्तुतीनांनेतारः स्तोतारः बहुस्तोतारमित्यर्थः द्युक्षंदीप्तंद्युनिवासिनंवाहोता- रंहोमसंपादकं वृजनेषुबलेषुधूर्षदंबलस्यकर्तारमित्यर्थः अग्नेःपाटवेसतिशरीरं बलवत् भवतीतिप्रसि- द्धम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०