मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २, ऋक् २

संहिता

अ॒भि त्वा॒ नक्ती॑रु॒षसो॑ ववाशि॒रेऽग्ने॑ व॒त्सं न स्वस॑रेषु धे॒नवः॑ ।
दि॒व इ॒वेद॑र॒तिर्मानु॑षा यु॒गा क्षपो॑ भासि पुरुवार सं॒यतः॑ ॥

पदपाठः

अ॒भि । त्वा॒ । नक्तीः॑ । उ॒षसः॑ । व॒वा॒शि॒रे॒ । अग्ने॑ । व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ ।
दि॒वःऽइ॑व । इत् । अ॒र॒तिः । मानु॑षा । यु॒गा । आ । क्षपः॑ । भा॒सि॒ । पु॒रु॒ऽवा॒र॒ । स॒म्ऽयतः॑ ॥

सायणभाष्यम्

हेअग्ने त्वात्वांअभिप्रतिनक्तीः रात्रीः उषसः अहानिसर्वासुरात्रिषुसर्वेष्वप्यहस्सु यद्वा नक्तशब्दः सायंकालंलक्षयति सायंप्रातरग्निहोत्रस्यसद्भावात् सर्वेषुकालेषुसायंप्रातः कालेषु वा ववाशिरे आकां- क्षन्तेयजमानायष्टुं यद्वा अहानिरात्रयश्चत्वामेवकामयन्ते होतुंकालेकर्मणश्चोदनात् कालानांकामनमु- पचर्यते तत्रदृष्टान्तः—स्वसरेषु स्वयंसरणशीलेष्वहस्सुसरणाधिकरणेषुगोष्ठेषुवा धेनवोवत्सनं वत्स- मिव किञ्च हेपुरुवार बहुभिर्वरणीयाग्ने संयतोनियतस्त्वं दिवइव द्युलोकस्येवअरतिः व्याप्तोविस्तृतः तत्रत्यानांदेवानांहविः प्रदानायैवसर्वत्रव्याप्तइत्यर्थः मानुषा मानुषाणांयजमानानांसंबन्धीनि युगा- युगानि युगशब्दःकालोपलक्षकः प्रातरादिसवनानिसर्वेषुसवनेषु अत्यन्तसंयोगेद्वितीया क्शपोइरात्रीः सर्वासुरात्रिष्वपिआभासि समन्तद्दीप्यसे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०