मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २, ऋक् ४

संहिता

तमु॒क्षमा॑णं॒ रज॑सि॒ स्व आ दमे॑ च॒न्द्रमि॑व सु॒रुचं॑ ह्वा॒र आ द॑धुः ।
पृश्न्या॑ः पत॒रं चि॒तय॑न्तम॒क्षभि॑ः पा॒थो न पा॒युं जन॑सी उ॒भे अनु॑ ॥

पदपाठः

तम् । उ॒क्षमा॑णम् । रज॑सि । स्वे । आ । दमे॑ । च॒न्द्रम्ऽइ॑व । सु॒ऽरुच॑म् । ह्वा॒रे । आ । द॒धुः॒ ।
पृश्न्याः॑ । प॒त॒रम् । चि॒तय॑न्तम् । अ॒क्षऽभिः॑ । पा॒थः । न । पा॒युम् । जन॑सी॒ इति॑ । उ॒भे इति॑ । अनु॑ ॥

सायणभाष्यम्

तंस्तुत्यतरंरजस्यन्तरिक्षेआउक्षमाणंसर्वतः सिञ्चन्तंवृष्टिजलं रजसिपृथिव्यांवेद्यांघृतादिना आसि- च्यमानंवा स्वेस्वकीयेह्वारेविजनेदमेयागगृहेआदधुः आदधते कीदृशंतं चन्द्रमिवसुरुचं चन्द्रमितिहि- रण्यनाम हिरण्यमिवशोभनदीप्तिं पश्चात्प्रवृद्धावस्थायांपृश्न्याःपतरंद्युलोकस्यान्तरिक्षस्यागन्तारं अक्षभिःस्वकीयैर्ज्वालारूपैः अवयवैः चितयंतं चेतयमानं पाथोनपायुं उदकमिवरक्षकं उभेजनसी स- र्वस्यजनयित्र्यौद्यावापृथिव्यावनुव्याप्तंभूम्यांहोमाधारत्वेनस्थित्वाहविः प्रापणायद्युलोकगामिनमि- तिभावः एवंरूपमग्निमादधते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०