स होता॒ विश्वं॒ परि॑ भूत्वध्व॒रं तमु॑ ह॒व्यैर्मनु॑ष ऋञ्जते गि॒रा ।
हि॒रि॒शि॒प्रो वृ॑धसा॒नासु॒ जर्भु॑र॒द्द्यौर्न स्तृभि॑श्चितय॒द्रोद॑सी॒ अनु॑ ॥
सः । होता॑ । विश्व॑म् । परि॑ । भू॒तु॒ । अ॒ध्व॒रम् । तम् । ऊं॒ इति॑ । ह॒व्यैः । मनु॑षः । ऋ॒ञ्ज॒ते॒ । गि॒रा ।
हि॒रि॒ऽशि॒प्रः । वृ॒ध॒सा॒नासु॑ । जर्भु॑रत् । द्यौः । न । स्तृऽभिः॑ । चि॒त॒य॒त् । रोद॑सी॒ इति॑ । अनु॑ ॥
सोग्निर्होताहोमनिष्पादकःसन् विश्वंसर्वंअध्वरंयागंपरिभूतु परितोभवतु तमुतमेवाग्निंहव्येर्हवि- र्भिः गिरास्तुत्याच मनुषोमनुष्याऋञ्चते प्रसाधयन्ति ऋञ्चतिःप्रसाधनकर्मा हिरिशिप्रोहरणशीलहनुः दीप्तोष्णीषोवा शिप्राःशीर्षसुविताहिण्ययीरित्यादिमन्त्रान्तरात् । बृधसानासुप्रवर्धमानास्वोषधीषु- ज्वालासुवाजर्भुरत् पूर्यमाणोयज्ञगन्ता शत्रंतंपदं यद्वा द्वितीयार्थेसप्तमी वर्धमानाओषधीर्जर्भुरत् पुनःपुनर्दहन्नित्यर्थः द्यौर्द्युलोकोन्तरिक्षंस्तृभिर्न नक्षत्रैरिवरोदसीअनुद्यवापृथिव्यावनुचितयत् चेतय- ति ज्वालाभिर्विस्फुलि ङ्गैश्चभुवमन्तक्षिरंचव्याप्नोतीत्यर्थः ॥ ५ ॥