मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २, ऋक् ६

संहिता

स नो॑ रे॒वत्स॑मिधा॒नः स्व॒स्तये॑ संदद॒स्वान्र॒यिम॒स्मासु॑ दीदिहि ।
आ नः॑ कृणुष्व सुवि॒ताय॒ रोद॑सी॒ अग्ने॑ ह॒व्या मनु॑षो देव वी॒तये॑ ॥

पदपाठः

सः । नः॒ । रे॒वत् । स॒म्ऽइ॒धा॒नः । स्व॒स्तये॑ । स॒म्ऽद॒द॒स्वान् । र॒यिम् । अ॒स्मासु॑ । दी॒दि॒हि॒ ।
आ । नः॒ । कृ॒णु॒ष्व॒ । सु॒वि॒ताय॑ । रोद॑सी॒ इति॑ । अग्ने॑ । ह॒व्या । मनु॑षः । दे॒व॒ । वी॒तये॑ ॥

सायणभाष्यम्

हेअग्ने सतादृशस्त्वंनोस्माकं स्वस्तये स्वस्तीत्यविनाशिनाम क्षेमायरेवत् रयिमत् रयिंधनं उपर्यु- परिवृद्धिमत् दानयोग्यंवाधनंअस्मासुसंददस्वान् सम्यक् प्रयच्छन् समिधानोस्माभिः सम्यगिध्यमा- नः सन् दीदिहि दीप्यस्व यद्वा रेवदितिक्रियाविशेषणं राःधनंसमृद्धिमत् यथातथादीप्यस्वेति तथा- भूतःसन् नोस्मभ्यंसुविताय सुहिताय शोभनफलाय रोदसीद्यावापृथिव्यावाकृणुष्व सर्वतः कुरुष्व उभौलोकौभोगप्रदौकुर्वित्यर्थः किमर्थमितितदुच्यते हेदेवाग्ने मनुषोमनुष्यस्ययजमानस्य ममसंबन्धी- नि हव्याहवीषिवीतयेदेवेभ्योभक्षणायपुनः पुनर्यागाद्यनुष्ठानायेत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१