मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २, ऋक् ७

संहिता

दा नो॑ अग्ने बृह॒तो दाः स॑ह॒स्रिणो॑ दु॒रो न वाजं॒ श्रुत्या॒ अपा॑ वृधि ।
प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ स्व१॒॑र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतः ॥

पदपाठः

दाः । नः॒ । अ॒ग्ने॒ । बृ॒ह॒तः । दाः । स॒ह॒स्रिणः॑ । दु॒रः । न । वाज॑म् । श्रुत्यै॑ । अप॑ । वृ॒धि॒ ।
प्राची॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । ब्रह्म॑णा । कृ॒धि॒ । स्वः॑ । न । शु॒क्रम् । उ॒षसः॑ । वि । दि॒द्यु॒तः॒ ॥

सायणभाष्यम्

हेअग्ने नोस्मभ्यं बृहतोमहतः प्रभूतान् गवाशादिधनविशेषान् दाःदेहि तथासहस्रिणः सहस्रसं- ख्योपेतान् पुत्रभृत्यादीन् दाः देहि ददातेश्छान्दसेलुङिरूपम् वाक्यभेदादनिघातः श्रुत्यैकीर्त्यै वाज- मन्नं दुरोनतस्य द्वाराण्यपि नशब्दश्चार्थे अपावृधि अपवृणु प्रेरयेत्यर्थः यद्वा द्वाराणीव तत्प्राप्त्युपाया- न्विशदयति तदर्थंद्यावापृथिवीब्रह्मणापरिवृढेनकर्मणाप्राचीप्रकृष्टाञ्चने अस्मदनुकूले कृधिकुरु स्वर्ण आदित्यइवयथाजगत्प्रकाशयति तद्वत् शुक्रंदीप्तंत्वामुषसः उषः कालाविदिद्युतुः विद्योतयन्ति उषः कालेह्यग्नयः प्रज्वाल्यन्ते ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१