मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २, ऋक् ८

संहिता

स इ॑धा॒न उ॒षसो॒ राम्या॒ अनु॒ स्व१॒॑र्ण दी॑देदरु॒षेण॑ भा॒नुना॑ ।
होत्रा॑भिर॒ग्निर्मनु॑षः स्वध्व॒रो राजा॑ वि॒शामति॑थि॒श्चारु॑रा॒यवे॑ ॥

पदपाठः

सः । इ॒धा॒नः । उ॒षसः॑ । राम्याः॑ । अनु॑ । स्वः॑ । न । दी॒दे॒त् । अ॒रु॒षेण॑ । भा॒नुना॑ ।
होत्रा॑भिः । अ॒ग्निः । मनु॑षः । सु॒ऽअ॒ध्व॒रः । राजा॑ । वि॒शाम् । अति॑थिः । चारुः॑ । आ॒यवे॑ ॥

सायणभाष्यम्

सोग्निःराम्यारमणहेतुभूताः उषसःअनुअनुलक्ष्यइधानः इध्यमानः दीपितःसन् अरुषेणरोचमाने- नभानुनातेजसास्वर्णआदित्यइवदीदेत् दीप्यते सोग्निर्मनुषोमनुष्यस्यहोतुः होत्राभिः होत्रेतिवाङ्गाम होमसाधनभूताभिःस्तुतिभिःस्तूयमानः स्वध्वरः शोभनयागोविशांप्रजानां राजाराजमानः स्वामी- आयवे मनुष्याय यजमानायतदर्थं चारुः चरणशीलः अतिथिः अतिथिवत्पूज्योभवति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१