मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २, ऋक् ९

संहिता

ए॒वा नो॑ अग्ने अ॒मृते॑षु पूर्व्य॒ धीष्पी॑पाय बृ॒हद्दि॑वेषु॒ मानु॑षा ।
दुहा॑ना धे॒नुर्वृ॒जने॑षु का॒रवे॒ त्मना॑ श॒तिनं॑ पुरु॒रूप॑मि॒षणि॑ ॥

पदपाठः

ए॒व । नः॒ । अ॒ग्ने॒ । अ॒मृते॑षु । पू॒र्व्य॒ । धीः । पी॒पा॒य॒ । बृ॒हत्ऽदि॑वेषु । मानु॑षा ।
दुहा॑ना । धे॒नुः । वृ॒जने॑षु । का॒रवे॑ । त्मना॑ । श॒तिन॑म् । पु॒रु॒ऽरूप॑म् । इ॒षणि॑ ॥

सायणभाष्यम्

बृहद्दिवेषुप्रभूतद्युतिषुअमृतेषुदेवेषुमध्ये हेपूर्व्य पूर्वभाविन्नग्ने त्वांमानुषामनुष्याणांमध्ये नोस्म- दीयाधीर्बुद्धिःस्तुतिकर्मवा एवएवंपीपायप्याययति यद्वा मानुषामनुष्यान् धीस्त्वदीया बुद्धिः कर्म- वाप्याययतु तथात्वदीयाधीः वृजनेषुयज्ञेषुकारवेस्तोत्रेदुहाना धेनुः दोग्ध्रीधेनुरिव लुप्तोपममेतत् त्मनाआत्मनैव इषणिएषणायां सत्यां शतिनं अपरिमितसंख्याकं पुरुरूपंगवाश्वादिरूपेणनानारूपं धनसमूहं दुहानाभवति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१