मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २, ऋक् १०

संहिता

व॒यम॑ग्ने॒ अर्व॑ता वा सु॒वीर्यं॒ ब्रह्म॑णा वा चितयेमा॒ जनाँ॒ अति॑ ।
अ॒स्माकं॑ द्यु॒म्नमधि॒ पञ्च॑ कृ॒ष्टिषू॒च्चा स्व१॒॑र्ण शु॑शुचीत दु॒ष्टर॑म् ॥

पदपाठः

व॒यम् । अ॒ग्ने॒ । अर्व॑ता । वा॒ । सु॒ऽवीर्य॑म् । ब्रह्म॑णा । वा॒ । चि॒त॒ये॒म॒ । जना॑न् । अति॑ ।
अ॒स्माक॑म् । द्यु॒म्नम् । अधि॑ । पञ्च॑ । कृ॒ष्टिषु॑ । उ॒च्चा । स्वः॑ । न । शु॒शु॒ची॒त॒ । दु॒स्तर॑म् ॥

सायणभाष्यम्

हेअग्ने वयंयजमानाः सुवीर्यंशोभनसामर्थ्योपेतंयथातथा अर्वतावा अरणकुशलेनाश्वेन वाशब्द- श्चार्थे ब्रह्मणावाअन्नेनचत्वद्दत्तेनजनानस्मत्समानानतिचितयेम अतिक्रम्यज्ञायेमहि कर्मणिकर्तृप्रत्ययः यद्वा त्वद्दत्तेनान्नेनचसुवीर्यंचितयेम प्रकाशायतदर्थ्मस्माकंपञ्च पञ्चसुकृष्टिषुजनेषुनिषादपञ्चमेषुच- तुर्षुवर्णेषुउच्चाउच्चैः अतिप्रभूतं दुस्तरं अन्येनाप्राप्तंद्युम्नंधनं स्वर्णं सूर्यइव अधि अधिकं शुशुचीतदीप्य- तां अधीत्ययमनर्थकोवा ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१