मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २, ऋक् ११

संहिता

स नो॑ बोधि सहस्य प्र॒शंस्यो॒ यस्मि॑न्त्सुजा॒ता इ॒षय॑न्त सू॒रयः॑ ।
यम॑ग्ने य॒ज्ञमु॑प॒यन्ति॑ वा॒जिनो॒ नित्ये॑ तो॒के दी॑दि॒वांसं॒ स्वे दमे॑ ॥

पदपाठः

सः । नः॒ । बो॒धि॒ । स॒ह॒स्य॒ । प्र॒ऽशंस्यः॑ । यस्मि॑न् । सु॒ऽजा॒ताः । इ॒षय॑न्त । सू॒रयः॑ ।
यम् । अ॒ग्ने॒ । य॒ज्ञम् । उ॒प॒ऽयन्ति॑ । वा॒जिनः॑ । नित्ये॑ । तो॒के । दी॒दि॒ऽवांस॑म् । स्वे । दमे॑ ॥

सायणभाष्यम्

हेअग्ने सहस्यशत्रूणामभिभवितः बलप्रभववा प्रशंस्यः स्तुत्यः सत्वंनोस्मदीयंस्तोत्रादिकं बोधिबु- ध्यस्व सइत्युक्तंकइत्याह—यस्मिन्नग्नौसुजाताः शोभनजननाः सूरयः स्तोतारऋत्विजः इषयन्त गम- यन्तिस्तोत्राणि किञ्च हेअग्नेयज्ञंयजनीयंयंवाजिनोहविर्लक्षणान्नवन्तोयजमानानित्येतोकेऔरसेपुत्रे- निमित्तभूतेसति यद्वा तस्मिन् यथादीप्यतेपुत्रगृहेयथापितादीप्यतेतद्वत् स्वेदमे स्वकीयेयागगृहेसव- नीयादिस्थानेदीदिवांसंदीप्यमानमुपयन्ति हविःस्तोत्रादिनासबोधीत्यन्वयः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१