उ॒भया॑सो जातवेदः स्याम ते स्तो॒तारो॑ अग्ने सू॒रय॑श्च॒ शर्म॑णि ।
वस्वो॑ रा॒यः पु॑रुश्च॒न्द्रस्य॒ भूय॑सः प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः ॥
उ॒भया॑सः । जा॒त॒ऽवे॒दः॒ । स्या॒म॒ । ते॒ । स्तो॒तारः॑ । अ॒ग्ने॒ । सू॒रयः॑ । च॒ । शर्म॑णि ।
वस्वः॑ । रा॒यः । पु॒रु॒ऽच॒न्द्रस्य॑ । भूय॑सः । प्र॒जाऽव॑तः । सुऽअ॒प॒त्यस्य॑ । श॒ग्धि॒ । नः॒ ॥
हेजातवेदः जातानांवेदितरग्ने स्तोतारः त्वांस्तुवन्तऋत्विजः सूरयोमेधाविनोयजमानाश्चेत्युभ- यासः उभयेवयंशर्मणिसुखेनिमित्तभूतेसति तेत्वत्संबन्धिनःस्याम भवेम यद्वा तेशर्मणिस्याम त्वंच- नोस्माकंवस्वोनिवासहेतोर्वसिष्ठस्यरयोगवादिधनस्यपुरुश्चन्द्रस्य अतिशयेनाह्लादकस्यबहुहिरण्यो- पेतस्यवाभुयसः प्रभूतस्यप्रजावतोभृत्याद्युपेतस्यपुत्रादिभोगपर्याप्तस्यवा स्वपत्यस्य शोनपुत्रस्य ईदृग्रूपंधनंनोस्मभ्यंशग्धि देहि दातुंशक्तोभवसि ॥ १२ ॥