मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २, ऋक् १३

संहिता

ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ ।
अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

ये । स्तो॒तृऽभ्यः॑ । गोऽअ॑ग्राम् । अश्व॑ऽपेशसम् । अग्ने॑ । रा॒तिम् । उ॒प॒ऽसृ॒जन्ति॑ । सू॒रयः॑ ।
अ॒स्मान् । च॒ । तान् । च॒ । प्र । हि । नेषि॑ । वस्यः॑ । आ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

येस्तोतृभ्यइतित्रयोदशीव्याख्याता ॥ १३ ॥

समिद्धोअग्निरित्येकादशर्चंतृतीयंसूक्तंगार्त्समदंत्रैष्टुभं सप्तमीजगती समिद्धोग्निर्नराशंसः तनूनपा- दादयएकादशप्रयाजदेवताः समिद्धएकादशाप्रंसप्तमीजगतीत्यनुक्रमणिका पशौशुनकानामिदमाप्री- सूक्तं गृत्समदस्यापिशुनकत्वात् समिद्धोअग्निरितिशुनकानामितिहिसूत्रितम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१