मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३, ऋक् १

संहिता

समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ्विश्वा॑नि॒ भुव॑नान्यस्थात् ।
होता॑ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥

पदपाठः

सम्ऽइ॑द्धः । अ॒ग्निः । निऽहि॑तः । पृ॒थि॒व्याम् । प्र॒त्यङ् । विश्वा॑नि । भुव॑नानि । अ॒स्था॒त् ।
होता॑ । पा॒व॒कः । प्र॒ऽदिवः॑ । सु॒ऽमे॒धाः । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥

सायणभाष्यम्

पृथिव्यांवेदिलक्षणायांसमिद्धः सम्यक् दीप्तः एतन्नामकोग्निः निहितः स्थापितः सन् विश्वानिस- र्वाणि भुवनानिभूतजातानिप्रत्यङ् अभिमुखःसन् अस्थात् तिष्ठति यथासर्वेजनाः पश्यन्ति तथा प्रवृ- द्धोभव्दित्यर्थः किञ्च सोग्निर्होताहोमनिष्पादकोदेवानामाह्वातावापावकः शोधकः प्रदिवः पुराणः सुमेधाः शोभनप्रज्ञोदेवोद्योतमानः एवंमहानुभावोग्निः अर्हन् यागयोग्यः सन् देवान् यजतु अत्रय- ष्टव्यानिन्द्रादीन्पूजयतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२