मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३, ऋक् ६

संहिता

सा॒ध्वपां॑सि स॒नता॑ न उक्षि॒ते उ॒षासा॒नक्ता॑ व॒य्ये॑व रण्वि॒ते ।
तन्तुं॑ त॒तं सं॒वय॑न्ती समी॒ची य॒ज्ञस्य॒ पेशः॑ सु॒दुघे॒ पय॑स्वती ॥

पदपाठः

सा॒धु । अपां॑सि । स॒नता॑ । नः॒ । उ॒क्षि॒ते इति॑ । उ॒षसा॒नक्ता॑ । व॒य्या॑ऽइव । र॒ण्वि॒ते इति॑ ।
तन्तु॑म् । त॒तम् । सं॒वय॑न्ती॒ इति॑ स॒म्ऽवय॑न्ती । स॒मी॒ची इति॑ स॒म्ऽई॒ची । य॒ज्ञस्य॑ । पेशः॑ । सु॒दुघे॒ इति॑ सु॒ऽदुघे॑ । पय॑स्वती॒ इति॑ ॥

सायणभाष्यम्

साधुसाधूनि नोस्मदीयानि अपांसि कर्माणि उद्दिश्य सनता सनातनेन अविच्छिन्न प्रवृत्तिकेन- स्तोत्रादिना उक्षिते पूजिते यद्वा पुराणवाचीविभक्त्यन्तः सनच्छब्दोस्ति तस्यप्रथमाद्विवचनस्याका- रः सनातने नित्येइत्यर्थः अस्मिन्पक्षे उक्षिते फलस्यसेचयित्र्यौ कर्तरिनिष्ठा उषासानक्ता अहोरात्रदे- वते वय्याइव कुशलेइव रण्विते शब्दितेस्तुते परस्परंगच्छ्न्त्यौवा ततं विस्तृतं तन्तुं तन्तुस्थानीयं यज्ञावयवं संतयन्ती सम्यक् चित्रं सहवा वयन्त्यौ उत्पादयित्र्यौ समीची सम्यक् प्रवृत्तिके परस्परा- नुकूले किमर्थंसंवयन्ती यज्ञस्यानुष्ठीयमानस्यपेशोरूपंनिर्मातुमितिशेषः यज्ञंनिवर्तयितुं तदवयवानु- क्रमेणानुष्ठापयित्र्यावित्यर्थः अहोरात्राभ्यांहियज्ञास्तन्यन्ते सुदुघे सुष्ठु फलस्यदोग्ध्र्यौ पयस्वत उदक- वत्यौ अहोरात्राभ्यांखलुवृष्टिर्जायते एवंमहानुभावे अहोरात्रदेवते अस्मद्यज्ञं निर्वहतामित्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३