मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३, ऋक् ७

संहिता

दैव्या॒ होता॑रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षत॒ः समृ॒चा व॒पुष्ट॑रा ।
दे॒वान्यज॑न्तावृतु॒था सम॑ञ्जतो॒ नाभा॑ पृथि॒व्या अधि॒ सानु॑षु त्रि॒षु ॥

पदपाठः

दैव्या॑ । होता॑रा । प्र॒थ॒मा । वि॒दुःऽत॑रा । ऋ॒जु । य॒क्ष॒तः॒ । सम् । ऋ॒चा । व॒पुःऽत॑रा ।
दे॒वान् । यज॑न्तौ । ऋ॒तु॒ऽथा । सम् । अ॒ञ्ज॒तः॒ । नाभा॑ । पृ॒थि॒व्याः । अधि॑ । सानु॑षु । त्रि॒षु ॥

सायणभाष्यम्

दैव्या दिविभवोदिव्योग्निः तस्माद्दिव्यादग्नेर्जातौ होताराआह्वातारौ देवानांहोमनिष्पादकौवा- ग्नी पार्थिवान्तरिक्ष्यौ प्रथमाप्रथमंयष्टव्यौ विदुष्टराविद्वत्तमौ वपुष्टराप्रकृष्टवपुषौदेवावृचा मन्त्रेण ऋ- जुअविकलं यथातथासम्यक् यक्षतः पूजयतः ऋतुथातत्तदृतौ तत्रतत्रकाले देवान् यष्टव्यान् यजन्तौ देवौ पृथिव्याः नाभानाभौ उत्तरवेद्यां अधिउपरि त्रिषुसानुषुसमुच्छ्रितेषु प्रदेशेषुगार्हपत्यादिषु सम- ञ्चतः समांक्तां अञ्चतेर्लेट्यडागमः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३