मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३, ऋक् ८

संहिता

सर॑स्वती सा॒धय॑न्ती॒ धियं॑ न॒ इळा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः ।
ति॒स्रो दे॒वीः स्व॒धया॑ ब॒र्हिरेदमच्छि॑द्रं पान्तु शर॒णं नि॒षद्य॑ ॥

पदपाठः

सर॑स्वती । सा॒धय॑न्ती । धिय॑म् । नः॒ । इळा॑ । दे॒वी । भार॑ती । वि॒श्वऽतू॑र्तिः ।
ति॒स्रः । दे॒वीः । स्व॒धया॑ । ब॒र्हिः । आ । इ॒दम् । अच्छि॑द्रम् । पा॒न्तु॒ । श॒र॒णम् । नि॒ऽसद्य॑ ॥

सायणभाष्यम्

नोस्मदीयां धियंबुद्धिंयागंवासाधयन्ती निवर्तयन्ती सरस्वती इळाएतन्नामिकादेवीभारतीच- विश्वतूर्तिर्विश्वानितूर्णानियस्याः सातादृशीसर्वविषयगतावाक् एतदुभयविशेषणं तिस्रोदेवीः एता- स्तिस्रोदेव्यः स्वधयाअस्मद्दत्तहविषा निमित्तेनेदंबर्हिर्यज्ञं अच्छिद्रंयथातथापान्तु किंकृत्वा शरणंया- गगृहं आनिषद्यआश्रित्य यद्वा स्वधयेदं वर्हिरिमंयज्ञमागत्यास्मदीयंशरणं गृहं निषद्याच्छिद्रंयथात- थापान्तु ॥ ८ ॥ अथपिशङ्गरूपइतिनव्मीत्वाष्ट्रेपशौपुरोडाशस्ययाज्या पिशङ्गरूपःसुभरोवयोधाः प्रथमभाजं- यशसंवयोधामितिसूत्रितत्वात् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३