मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३, ऋक् ९

संहिता

पि॒शङ्ग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः ।
प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥

पदपाठः

पि॒शङ्ग॑ऽरूपः । सु॒ऽभरः॑ । व॒यः॒ऽधाः । श्रु॒ष्टी । वी॒रः । जा॒य॒ते॒ । दे॒वऽका॑मः ।
प्र॒ऽजाम् । त्वष्टा॑ । वि । स्य॒तु॒ । नाभि॑म् । अ॒स्मे इति॑ । अथ॑ । दे॒वाना॑म् । अपि॑ । ए॒तु॒ । पाथः॑ ॥

सायणभाष्यम्

पिशङ्गरूपः सुवर्णवर्णः नानारूपोवासुभरः शोभनयज्ञः शोभनभरणोवा वयोधावयसोन्नस्य धारयितादातावा श्रुष्टीक्षिप्रगुणः वीरोविविधमीरयिता देवकामः देवाः काम्यन्तेयेनतादृशः पुत्रो- जायते जयतामुत्पाद्यतांत्वष्टुरनुग्रहात् सचत्वष्टाएतन्नामकोदेवोस्मेस्मभ्यंनाभिंकुलस्यबन्धिकांप्रजां पुत्रादिरूपांविष्यतु विमुञ्चतु वितरत्वित्यर्थः अथअपिचदेवानांसंबन्धिपाथोन्नमप्यस्मानेतु गच्छतु अपिःक्रिययावासंबध्यते गच्छत्वित्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३