मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३, ऋक् १०

संहिता

वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू॑दयाति॒ प्र धी॒भिः ।
त्रिधा॒ सम॑क्तं नयतु प्रजा॒नन्दे॒वेभ्यो॒ दैव्य॑ः शमि॒तोप॑ ह॒व्यम् ॥

पदपाठः

वन॒स्पतिः॑ । अ॒व॒ऽसृ॒जन् । उप॑ । स्था॒त् । अ॒ग्निः । ह॒विः । सू॒द॒या॒ति॒ । प्र । धी॒भिः ।
त्रिधा॑ । सम्ऽअ॑क्तम् । न॒य॒तु॒ । प्र॒ऽजा॒नन् । दे॒वेभ्यः॑ । दैव्यः॑ । श॒मि॒ता । उप॑ । ह॒व्यम् ॥

सायणभाष्यम्

वनस्पतिःयूपाभिमानीएतन्नामकोग्निः अवसृजन् अस्मदीयंकर्मानुजानन् उपास्मत्समीपे स्थात् तिष्ठतु अग्निःपाकाधारोग्नि श्चहविःपशुरूपंधीभिःकर्मविशेषैः पाकसाधनैः प्रप्रकर्षेणसूदयातिक्षारयति अपाकाधिकपाकादिराहित्येनहविः पचतीत्यर्थः किञ्च दैव्योदेवसंबन्धीआहुत्यधिकरणभूतोग्निःशमि- ताहविषः संस्कर्ता यद्वा दैव्यः शमिताएतन्नामकोग्निः अग्निर्वैदेवानांशमितेतिश्रूयते । त्रिधा त्रिप्रकारं- उपस्तरणावदानाभिघारणैः समक्तंसम्यक् सिक्तंहव्यंहविः प्रजानन् विद्वान् नयनप्रकाराभिज्ञःसन् देवेभ्यौपनयतु समीपंप्रपयतु ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३