मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ८, ऋक् १

संहिता

वा॒ज॒यन्नि॑व॒ नू रथा॒न्योगाँ॑ अ॒ग्नेरुप॑ स्तुहि ।
य॒शस्त॑मस्य मी॒ळ्हुषः॑ ॥

पदपाठः

वा॒ज॒यन्ऽइ॑व । नु । रथा॑न् । योगा॑न् । अ॒ग्नेः । उप॑ । स्तु॒हि॒ ।
य॒शःऽत॑मस्य । मी॒ळ्हुषः॑ ॥

सायणभाष्यम्

हेअन्तरात्मन् नुक्षिप्रंअग्नेर्योगानश्वान् उपस्तुहि कीदृशस्याग्नेः वशस्तमस्यप्रवृद्धयशसः त्वमर्थोलु- प्यते मीह्ळुषः सेक्तुः फलस्य ईदृशस्ययोगान् स्तुहि होतरितिवासंबोध्यं स्तुतौदृष्टान्तः—वाजयन्नि- वअन्नमिच्छन् पुरुषइव सयथाअश्वान् गमनायस्तौतितद्वत् यद्वोक्तलक्षणस्याग्रेर्गमनसाधनान् रथान् स्तुहि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९