मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ८, ऋक् ५

संहिता

अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः ।
विश्वा॒ अधि॒ श्रियो॑ दधे ॥

पदपाठः

अत्रि॑म् । अनु॑ । स्व॒ऽराज्य॑म् । अ॒ग्निम् । उ॒क्थानि॑ । व॒वृ॒धुः॒ ।
विश्वाः॑ । अधि॑ । श्रियः॑ । द॒धे॒ ॥

सायणभाष्यम्

अत्रिंशत्रूणामन्नानां वासभ्क्तं स्वराज्यं स्वयमेव राजमानंस्वाराज्यमनु अभिलक्ष्यवाग्निं उक्था- निशस्त्राणिववृधुः वर्धयन्ति सचाग्निर्विश्वाः सर्वाःश्रियःशोभाः अधिदधे अधिकं धारयति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९