मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ९, ऋक् १

संहिता

नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्ष॑ः ।
अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥

पदपाठः

नि । होता॑ । हो॒तृ॒ऽसद॑ने । विदा॑नः । त्वे॒षः । दी॒दि॒ऽवान् । अ॒स॒द॒त् । सु॒ऽदक्षः॑ ।
अद॑ब्धव्रतऽप्रमतिः । वसि॑ष्ठः । स॒ह॒स्र॒म्ऽभ॒रः । शुचि॑ऽजिह्वः । अ॒ग्निः ॥

सायणभाष्यम्

यस्यनिः श्वसितंवेदायोवेदेभ्योऽखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

वागीशाद्याःसुमनसः सर्वार्थानामुपक्रमे । यंनत्वाकृतकृत्याःस्युस्तंनमामिगजाननम् ॥ २ ॥

निहोतेतिषळ्रुचंनवमंसूक्तंगृत्समदस्यार्षं निहोतेत्यनुक्रान्तत्वात् अनुक्तत्वान्त्रिष्टुप् मण्डलादिपरि- भाषयाग्निर्देवता प्रातरनुवाकाश्विनशस्त्रयोराग्नेयेक्रतौत्रैष्टुभेछन्दस्यस्यविनियोगःअथैतस्याइतिखण्डे- सूत्रितम्—निहोताहोतृषदनइतिसूक्तेइति अग्निप्रणयनेआद्येऋचौविनियुक्ते पञ्चम्यांपौर्णमास्यामि- तिखण्डेसूत्रितम्—निहोताहोतृषदनेविदानइतिद्वेइति ।

ग्रुत्समदःस्तौति होतादेवानामाह्वाताविदानोविद्वान् त्वेषः प्रवृद्धः दीदिवान् दीप्यमानः सुदक्षः शोभनबलः अदब्धव्रतप्रमतिः अदब्धानिअहिंसितानिव्रतानिकर्माणियस्याःसाअदब्धव्रतप्रमतिः प्रकृ- ष्टाबुद्धिःयस्य सतथोक्तः वसिष्ठः सर्वस्यवासयितृतमः वासयतेस्तृजन्तस्यइष्ठनिरूपं सहस्रंभरः सहस्र- स्यानेकविधस्यभर्ताविहरणेननानाविधरूपस्यधारकइत्यर्थः यद्वा सहस्रस्यसर्वस्यभर्ता तथाचवाज- सनेयकेम्—सर्वंवैसहस्रंसर्वंभरइत्येवतदाहेति । शुचिजिह्वः शुचिर्दीप्ताजिह्वाज्वालायस्यसतथोक्तः एवंभूतोग्निः होतृषदने होतात्रसीदतीतिहोतृषदनमुत्तरावेदी अधिकरणेल्युट् तत्रन्यसदत् नितरांसी- दतु उक्तार्थेब्राह्मणम्—निहोताहोतृषदनेविदानइत्यग्निर्वैदेवानांहोतातस्यैतद्धोतृषदनंयदुत्तरवेदीना- भिस्त्वेषोदीदिवाँअसदत्सुदक्षइत्यासन्नोहिसतर्हिभवत्यदब्धव्रतप्रमतिर्वसिष्ठइत्यग्निर्वैदेवानांवसिष्ठः सहस्रंभरःशुचिजिह्वोअग्निरित्येषाहवाअस्यसहस्रंभरतायदेनमेकंसन्तंबहुधाविहरन्तीति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः