मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ९, ऋक् २

संहिता

त्वं दू॒तस्त्वमु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता ।
अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः ॥

पदपाठः

त्वम् । दू॒तः । त्वम् । ऊं॒ इति॑ । नः॒ । प॒रः॒ऽपाः । त्वम् । वस्यः॑ । आ । वृ॒ष॒भ॒ । प्र॒ऽने॒ता ।
अग्ने॑ । तो॒कस्य॑ । नः॒ । तने॑ । त॒नूना॑म् । अप्र॑ऽयुच्छन् । दीद्य॑त् । बो॒धि॒ । गो॒पाः ॥

सायणभाष्यम्

हेवृषभ अभिमतफलवर्षक हेअग्ने त्वंदूतः अस्मदीयेयज्ञेदेवाह्वानार्थंदूतोभव त्वमुत्वमेवनोस्माकं प्रस्पाः आपद्भ्यः पारयितापाताचभव किञ्च त्वंवस्योवसुनोधनस्यआप्रणेताअस्मदाभिमुख्येनप्रापयि- ताभव अप्रयुच्छन् अप्रमाद्यन् दीद्यत् दीदयतिर्दीप्तिकर्मा शोभमानः त्वंनोस्माकं तोकस्यपुत्रस्यतने तनोतिविस्तारयतिकुलप्रितितनः पौत्रः तस्मिन् अस्मदीयानांतनूनांगोपाः गोपायितातथाचब्राह्मण- म्—अग्निर्वैदेवानांगोपाअग्निमेवतत्सर्वतोगोप्तारंपरिदत्तआत्मनेचयजमानायँचेति । तादृशस्त्वं- चगोपायिताभवामीतिबोधिबुध्यस्व ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः