मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ९, ऋक् ४

संहिता

अग्ने॒ यज॑स्व ह॒विषा॒ यजी॑याञ्छ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राधः॑ ।
त्वं ह्यसि॑ रयि॒पती॑ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता॑ ॥

पदपाठः

अग्ने॑ । यज॑स्व । ह॒विषा॑ । यजी॑यान् । श्रु॒ष्टी । दे॒ष्णम् । अ॒भि । गृ॒णी॒हि॒ । राधः॑ ।
त्वम् । हि । असि॑ । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । त्वम् । शु॒क्रस्य॑ । वच॑सः । म॒नोता॑ ॥

सायणभाष्यम्

हेअग्ने यजीयान् यष्टृतमस्त्वं हविषास्मद्दत्तेनयजस्व देवान्संयोजयदेष्णंदेयंराधोन्नंश्रुष्टी श्रुष्टीति- क्षिप्रनाम क्षिप्रंअभिगृणीहि देवानांपुरतः इदंस्वादुतरमिदंस्वादुतरमितिब्रूहि यद्वा श्रुष्टीक्षिप्रकारी त्वंदेष्णंदेयंराधोधनंअभिगृणीहि अस्मदाभिमुख्येनब्रूहिप्रयच्छेत्यर्थः दानसामर्थ्यंदर्शयति त्वंरयीणां- धनानांमध्येरयिपतिः उत्तमधनस्यपतिरसिहि यद्वा रयीणांरयिपतिरित्यत्रैकोरयिशब्दोनुवादः त्वं- शुक्रस्यदीप्तस्यवचसः अस्मदीयस्यस्तोत्रस्यमनोताप्रज्ञाताभवसि यद्वा मानयिता ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः