मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ९, ऋक् ५

संहिता

उ॒भयं॑ ते॒ न क्षी॑यते वस॒व्यं॑ दि॒वेदि॑वे॒ जाय॑मानस्य दस्म ।
कृ॒धि क्षु॒मन्तं॑ जरि॒तार॑मग्ने कृ॒धि पतिं॑ स्वप॒त्यस्य॑ रा॒यः ॥

पदपाठः

उ॒भय॑म् । ते॒ । न । क्षी॒य॒ते॒ । व॒स॒व्य॑म् । दि॒वेऽदि॑वे । जाय॑मानस्य । द॒स्म॒ ।
कृ॒धि । क्षु॒ऽमन्त॑म् । ज॒रि॒तार॑म् । अ॒ग्ने॒ । कृ॒धि । पति॑म् । सु॒ऽअ॒प॒त्यस्य॑ । रा॒यः ॥

सायणभाष्यम्

दस्मदर्शनीयहेअग्ने दिवेदिवेप्रतिदिनमग्निहोत्रकालेजायमानस्यते तवउभयंवसव्यंदिव्यं भौमंचव- सु वस्वादित्वात्स्वार्थिकोयप्रत्ययः तादृशमुभयंवसुनक्षीयते नहीयते अस्योभयविधधनसद्भावेमन्त्र- वर्णः त्वंह्यग्नेदिव्यस्यराजसित्वंपार्थिवस्येत्यत्रोक्तः । अतस्त्वंजरितारं तवस्तोत्रंकुर्वाणमिमंयजमानं- क्षुमन्तमन्नवन्तं कीर्तिमन्तंवाकृधिकुरु किञ्च स्वपत्यस्यशोभनापत्ययुक्तस्यरायोधनस्यपतिं स्वामिनं- कृधिकुरु ॥ ५ ॥ साकमेधेपर्वणिपूर्वेद्युरनुसवनंतिस्रइष्टयःकर्तव्याः प्रथमायामग्नेरनीकवतःसैनानीकेनेतियाज्या तथाततः साकमेधाइतिखण्डेसूत्रितम्—सैनानीकेनसुविदत्रोअस्मेइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः