सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति ।
अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥
सः । ए॒ना । अनी॑केन । सु॒ऽवि॒दत्रः॑ । अ॒स्मे इति॑ । यष्टा॑ । दे॒वान् । आऽय॑जिष्ठः । स्व॒स्ति ।
अद॑ब्धः । गो॒पाः । उ॒त । नः॒ । प॒रः॒ऽपाः । अग्ने॑ । द्यु॒ऽमत् । उ॒त । रे॒वत् । दि॒दी॒हि॒ ॥
हेअग्ने सतादृशस्त्वं एना अनेनानीकेन ज्वालासमूहेनयुक्तस्त्वं सुविदत्रः सुप्रज्ञः सुधनोवास्मेअ- स्माकंभव देवान् यष्टा देवानांहविःप्रदानेनपूजकः आयजिष्ठः यष्टृतमः अदब्धः केनाप्यतिरस्कृतः गोपाः देवानां गोपायिता उतापिचनोस्माकंपरस्पाः दुरितेभ्यःपारयिताचत्वं द्युमत् कान्तियुक्तं उतापिचरेवत् धन्युक्तंयथाभवतितथास्वस्तिदिदीहि क्षेमेणसर्वतोदीप्यस्व ॥ ६ ॥
जोहूत्रइतिषळृचंदशमंसूक्तंगार्त्समदं त्रैष्टुभमाग्नेयं जोहूत्रइत्यनुक्रान्तत्वात् सूक्तविनियोगः पूर्वेण- सहोक्तः ।