मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १०, ऋक् १

संहिता

जो॒हूत्रो॑ अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत्समि॑द्धः ।
श्रियं॒ वसा॑नो अ॒मृतो॒ विचे॑ता मर्मृ॒जेन्य॑ः श्रव॒स्य१॒॑ः स वा॒जी ॥

पदपाठः

जो॒हूत्रः॑ । अ॒ग्निः । प्र॒थ॒मः । पि॒ताऽइ॑व । इ॒ळः । प॒दे । मनु॑षा । यत् । सम्ऽइ॑द्धः ।
श्रिय॑म् । वसा॑नः । अ॒मृतः॑ । विऽचे॑ताः । म॒र्मृ॒जेन्यः॑ । श्र॒व॒स्यः॑ । सः । वा॒जी ॥

सायणभाष्यम्

जोहूत्रः सर्वैर्यज्ञार्थंह्वातव्योहोतव्योवा ह्वयतेर्जुहोतेर्वारूपम् तादृशः प्रथमः अग्निर्वैदेवानामव- मइत्याम्नानात् । मुख्योयोग्निः यत् यदाइळः इलायाः पदेउत्तरवेद्यात्मकेस्थाने मनुषामनुष्येणयज- मानेनसमिद्धःसोग्निः पितेवदेवानांहविःप्रापणेनपालकोभवति श्रियंदीप्तिंवसानः आच्छादयन् अमृ- तः मरणधर्मरहितः विचेताः विविधप्रज्ञः श्रवस्यः श्रवइत्यन्ननाम तस्मै हितः वाजीबलवान् सोग्नि- र्मर्मृजेन्यः सर्वैःपरिचरणीयोभवति यङ्लुगन्तात् केन्यप्रत्ययः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः