मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १०, ऋक् २

संहिता

श्रू॒या अ॒ग्निश्चि॒त्रभा॑नु॒र्हवं॑ मे॒ विश्वा॑भिर्गी॒र्भिर॒मृतो॒ विचे॑ताः ।
श्या॒वा रथं॑ वहतो॒ रोहि॑ता वो॒तारु॒षाह॑ चक्रे॒ विभृ॑त्रः ॥

पदपाठः

श्रु॒याः । अ॒ग्निः । चि॒त्रऽभा॑नुः । हव॑म् । मे॒ । विश्वा॑भिः । गीः॒ऽभिः । अ॒मृतः॑ । विऽचे॑ताः ।
श्या॒वा । रथ॑म् । व॒ह॒तः॒ । रोहि॑ता । वा॒ । उ॒त । अ॒रु॒षा । अह॑ । च॒क्रे॒ । विऽभृ॑त्रः ॥

सायणभाष्यम्

अमृतोमरणधर्मरहितोविचेताविशिष्टप्रज्ञः चित्रभानुः विचित्रदीप्तिः चायनीयदीप्तिर्वा सोग्निः विश्वाभिर्गीर्भिः स्तुतिसाधनभूतैः सर्वैर्वाक्यैः क्रियमाणं मे मम हवं स्तोत्रंश्रूयाः श्रृणोतु तस्याग्नेरथं श्यावाश्याववर्णौ अश्वौवहतः वाअपिवा रोहितारोहिद्वर्णौ उतापिच अरुषाआरोचमानावश्वौरथं वहतः रोहिद्वर्णयोरश्वयोःश्यावादिवर्णपरिग्रहः स्वेच्छयाभवति विभृत्रः नानास्थानेषु विहृतः चक्रे- अहऋत्विग्भिरकारिखलु करोतेःकर्मणिलिट् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः