मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १०, ऋक् ३

संहिता

उ॒त्ता॒नाया॑मजनय॒न्त्सुषू॑तं॒ भुव॑द॒ग्निः पु॑रु॒पेशा॑सु॒ गर्भ॑ः ।
शिरि॑णायां चिद॒क्तुना॒ महो॑भि॒रप॑रीवृतो वसति॒ प्रचे॑ताः ॥

पदपाठः

उ॒त्ता॒नाया॑म् । अ॒ज॒न॒य॒न् । सुऽसू॑तम् । भुव॑त् । अ॒ग्निः । पु॒रु॒ऽपेशा॑सु । गर्भः॑ ।
शिरि॑णायाम् । चि॒त् । अ॒क्तुना॑ । महः॑ऽभिः । अप॑रिऽवृतः । व॒स॒ति॒ । प्रऽचे॑ताः ॥

सायणभाष्यम्

उत्तानायामुत्तानेशयायामरण्यांसुषूतं अग्निहोत्रार्थंसुष्ठुप्रेरितमग्निमजनयन् अध्वर्य्वादयौदपादयन् सोग्निः पुरुषेशासु पेशइतिरूपनाम बहुरूपास्वेषधीषुगर्भोभवतु अन्तर्वर्तमानतयागर्भइवभवेत् भवेत् भवतेर्लिङिरूपं शिरिणायांचित् शीर्यतेस्यांभूतानीतिशिरिणारात्रिः तस्यामपिअक्तुनाअञ्चनादक्तुस्त- मः तेनतमसाअपरिवृतः असंस्पृष्टः अतएवमहोभिस्तेजोभिर्युक्तः प्रचेताः प्रकृष्टप्रज्ञःसन् वसति दीप्य- मानोवर्तते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः