मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १०, ऋक् ४

संहिता

जिघ॑र्म्य॒ग्निं ह॒विषा॑ घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ ।
पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ॥

पदपाठः

जिघ॑र्मि । अ॒ग्निम् । ह॒विषा॑ । घृ॒तेन॑ । प्र॒ति॒ऽक्षि॒यन्त॑म् । भुव॑नानि । विश्वा॑ ।
पृ॒थुम् । ति॒र॒श्चा । वय॑सा । बृ॒हन्त॑म् । व्यचि॑ष्ठम् । अन्नैः॑ । र॒भ॒सम् । दृशा॑नम् ॥

सायणभाष्यम्

विश्वासर्वाणिभुवनानिप्रतिक्षियन्तंवैश्वानरत्मनाधितिष्ठन्तं पृथुंमहांतं तिरश्चसर्वतःप्रवर्तमानेन- वयसापेशसाबृहन्तंप्रवृद्धं अन्नैर्हविर्लक्षणैर्व्यचिष्ठंव्याप्तं रभसंबलवन्तंदृशानं एवंगुणवत्तयादृश्यमान- मग्निंपुरोडाशादिलक्षणेनहविषाघृतेनचजिघर्मि सिञ्चामि प्रतिह्येषसर्वाणिभूतानिक्षेति पृथुंतिरश्चा- वयसाधूमेनबृहन्तंव्यचिष्ठमन्नैरभसंदृशान मित्यवकाशनवन्तमन्नैरन्नादंदीप्यमानमित्ये तदाविश्वत- इत्यासर्वतः प्रत्यंचंजुहोमीत्येतदरक्षसेत्यहेळमानेनमनसेदंजुषेतेत्येतन्मर्यश्रीरितिमर्यश्रीरित्येषस्पृ- हयद्वर्णोअग्निर्नाभिमृशइतिनह्येषमृशेतदीप्यमानोभवतीति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः