मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १०, ऋक् ५

संहिता

आ वि॒श्वतः॑ प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत ।
मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा॒३॒॑ जर्भु॑राणः ॥

पदपाठः

आ । वि॒श्वतः॑ । प्र॒त्यञ्च॑म् । जि॒घ॒र्मि॒ । अ॒र॒क्षसा॑ । मन॑सा । तत् । जु॒षे॒त॒ ।
मर्य॑ऽश्रीः । स्पृ॒ह॒यत्ऽव॑र्णः । अ॒ग्निः । न । अ॒भि॒ऽमृशे॑ । त॒न्वा॑ । जर्भु॑राणः ॥

सायणभाष्यम्

विश्वतः सर्वत्रव्याप्यवर्तमानंप्रत्यंचंयज्ञंप्रत्यागच्छ्न्तं अग्निंयेनघृतेनआजिघर्मि आसिञ्चामि अर- क्षसाबाधकरहितेनमनसास्तोत्रेणसहतदाज्यंजुषेत भवान्सेवेत मर्गश्रीः मर्यैर्मर्त्यैः श्रयणीयोभजनीयः स्पृहयद्वर्णंयजमानःस्प्रुहयति तादृशवर्णौपेतः तन्वातेजसाजर्भुराणः पूर्यमाणोग्निः नाभिमुशे अति- तेजस्वितयाअभिमर्४शनीयोनभवति अभिपूर्वान्मृशेःक्रुत्यार्थेकेन्प्रत्ययः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः