मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १०, ऋक् ६

संहिता

ज्ञे॒या भा॒गं स॑हसा॒नो वरे॑ण॒ त्वादू॑तासो मनु॒वद्व॑देम ।
अनू॑नम॒ग्निं जु॒ह्वा॑ वच॒स्या म॑धु॒पृचं॑ धन॒सा जो॑हवीमि ॥

पदपाठः

ज्ञे॒याः । भा॒गम् । स॒ह॒सा॒नः । वरे॑ण । त्वाऽदू॑तासः । म॒नु॒ऽवत् । व॒दे॒म॒ ।
अनू॑नम् । अ॒ग्निम् । जु॒ह्वा॑ । व॒च॒स्या । म॒धु॒ऽपृच॑म् । ध॒न॒ऽसाः । जो॒ह॒वी॒मि॒ ॥

सायणभाष्यम्

वरेणवारयत्यनेनशत्रूनितिवरंतेजः तेनसहमानः शत्रूनभिभवन् त्वंभागंभजनीयंस्तोत्रंज्ञेयाः जा- नीहि आशिर्लिङि वान्यस्यसंयोगादेरित्येत्वं त्वादूतासः त्वंदूतोयेषामसितेत्वादूतासः यद्वा त्वयाप्रे- रितावयंमनुवत् मनुरिव वदेम स्तोत्रं ब्रूयाम जुह्वा हूयतेस्यामितिजुहूर्ज्वालापात्रविशेषोवा तयाअ- नूनंसंपूर्णंमधुपृचं मधुनाकर्मफलेनयजमानंसंयोजयन्तमग्निंधनसाः धनस्यसंभक्ताहंवचस्यास्तुतिका- मनयाजोहवीमि आह्वयामि ॥ ६ ॥

श्रुधीहवमित्येकविंशत्यृचमेकादशंसूक्तम् गार्त्समदं अत्रानुक्रमणिका श्रुधिसैकैन्द्रंविराट् स्थानमृ- तेन्त्यामिति विराट् स्थानात्रिष्टुप् तल्लक्षणमनुक्रमण्यामुक्तम्—नबकौबैराजस्त्रैष्टुभश्च द्वौवावैराजौ- नवकस्त्रैष्टुभश्चविराट्स्थानेति । अन्त्यात्रिष्टुप् विशेषस्यानुक्तत्वात् इन्द्रोदेवता पृष्ठ्यस्यचतुर्थेहनि- मरुत्वतीयशस्त्रेद्वेसूक्तेनिविद्धाने तत्रेदंतृतीयंसूक्तं चतुर्थेहनीतिखण्डेसूत्रितं—श्रुधीहवमिन्द्रमरुत्वाँ- इन्द्रेतिमरुत्वतीयमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः