मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् १

संहिता

श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्य॒ः स्याम॑ ते दा॒वने॒ वसू॑नाम् ।
इ॒मा हि त्वामूर्जो॑ व॒र्धय॑न्ति वसू॒यव॒ः सिन्ध॑वो॒ न क्षर॑न्तः ॥

पदपाठः

श्रु॒धि । हव॑म् । इ॒न्द्र॒ । मा । रि॒ष॒ण्यः॒ । स्याम॑ । ते॒ । दा॒वने॑ । वसू॑नाम् ।
इ॒माः । हि । त्वाम् । ऊर्जः॑ । व॒र्धय॑न्ति । व॒सु॒ऽयवः॑ । सिन्ध॑वः । न । क्षर॑न्तः ॥

सायणभाष्यम्

गृत्समदःस्तौति हेइन्द्र मेहवंमदीयमिदंस्तोत्रं श्रुधि श्रृणु मारिषण्यः माहिंसीः इदमल्पं नसाधी- यइतिमानिराकार्षीः दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यतीतिनिपातितः वयंतेतववसूनांदावनेदानाय- स्यामपात्रभूताभवेम इमाः अस्माभिर्दत्तानिवसूयवः दातुर्यजमानस्यधनमिच्छन्ति छन्दसिपरेच्छा- यांक्यच् तादृशानिक्षरंतः स्रवन्तः सिन्धवइव घृतक्षरणोपेतानिऊर्जोहविर्लक्षणान्यन्नानि त्वांवयर्ध- न्तिहि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः