मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् ४

संहिता

शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धय॑न्तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः ।
शु॒भ्रस्त्वमि॑न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विश॒ः सूर्ये॑ण सह्याः ॥

पदपाठः

शु॒भ्रम् । नु । ते॒ । शुष्म॑म् । व॒र्धय॑न्तः । शु॒भ्रम् । वज्र॑म् । बा॒ह्वोः । दधा॑नाः ।
शु॒भ्रः । त्वम् । इ॒न्द्र॒ । व॒वृ॒धा॒नः । अ॒स्मे इति॑ । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ ॥

सायणभाष्यम्

हेइन्द्र तेतवशुभ्रंशोभनंशुष्मंबलंस्तोत्रैर्वर्धयन्तः शुभ्रंदीप्तंवज्रमायुधंनुक्षिप्रंतवबाह्वोर्दधानाः निदधानाः स्तूयमानोहीन्द्रोसुरवधायवज्रमादत्तइतीत्थंरूपेणायुधंदधानाभवामः वावृधानः स्तोत्रै- र्वर्धमानः शुभ्रः तेजसायुक्तः त्वंअस्मेअस्माकंदासीः उपक्षपयित्रीः विशः आसुरीः प्रजाः सूर्येण- सुष्ठुप्रेरकेणाअयुधंहिप्रेरयति त्वंयुध्यस्वेति एवंरूपेणबाह्वोर्निहितेनवज्रेणसह्याः अभिभव सहते- र्व्यत्ययेनलिङिपरस्मैपदम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः