मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् ५

संहिता

गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्स्वपी॑वृतं मा॒यिनं॑ क्षि॒यन्त॑म् ।
उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं॑ शूर वी॒र्ये॑ण ॥

पदपाठः

गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । अपि॑ऽवृतम् । मा॒यिन॑म् । क्षि॒यन्त॑म् ।
उ॒तो इति॑ । अ॒पः । द्याम् । त॒स्त॒भ्वांस॑म् । अह॑न् । अहि॑म् । शू॒र॒ । वी॒र्ये॑ण ॥

सायणभाष्यम्

हेशूरेन्द्र गुहागुहायांहितंनिहितं अतएवगुह्यं अप्रकाश्यंगूह्ळंगूढं अप्सुउदकेषुअपीवृतंतिरोहितं अत्रैकस्मिन् तिरोधानरूपेर्थेपुनरुक्तयस्तिरोधानभूयस्त्वप्रतिपादनपराः अभ्यासेहिभूयानर्थोभवति यथाहोदर्शनीयाहोदर्शनीयेति तादृशंमायिनंमायाविनंअसुरंक्षियन्तं निवसंतं उतोअपिचापोद्यां दिवं- चतस्तभ्वांसं स्वसामर्थ्येनस्तंभयन्तं इत्थंभूतमहिमसुरंमेघंवावीर्येणसामर्थ्यभूतेन वज्रेण अहन् हतवानसि हनहिंसागत्योरित्यस्यलङिरूपम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः