मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् ८

संहिता

नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न्त्सं मा॒तृभि॑र्वावशा॒नो अ॑क्रान् ।
दू॒रे पा॒रे वाणीं॑ व॒र्धय॑न्त॒ इन्द्रे॑षितां ध॒मनिं॑ पप्रथ॒न्नि ॥

पदपाठः

नि । पर्व॑तः । सा॒दि॒ । अप्र॑ऽयुच्छन् । सम् । मा॒तृऽभिः॑ । वा॒व॒शा॒नः । अ॒क्रा॒न् ।
दू॒रे । पा॒रे । वाणी॑म् । व॒र्धय॑न्तः । इन्द्र॑ऽइषिताम् । ध॒मनि॑म् । प॒प्र॒थ॒न् । नि ॥

सायणभाष्यम्

अप्रयुच्छन् अप्रमाद्यन् वर्षणेसावधानःपर्वतोमेघःनिषादि नभसिनिषण्णाआसीत् मातृभिरद्भिः माध्यमिकाभिर्वाग्भिर्वासंवावशानः सहशब्दंकुर्वाणः अक्रान् अक्रमीत् इतस्ततःसञ्चारमकरोत् क्रम- तेर्लङिबहुलंछन्दसीतिविकरणस्यलुक् दूरेपारेअतिदूरेन्तरिक्षेस्थितांवाणींमाध्यमिकांवाचंवर्धयन्तः स्तोत्रैःसमृद्धांकुर्वन्तः स्तोतारोमरुतोवाइन्द्रेषितामिन्द्रेणप्रेरितांधमनिंशब्दं कुर्वाणांतांवाचं नि नित- रांपप्रथन् अप्रथयन् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः