मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् १०

संहिता

अरो॑रवी॒द्वृष्णो॑ अस्य॒ वज्रोऽमा॑नुषं॒ यन्मानु॑षो नि॒जूर्वा॑त् ।
नि मा॒यिनो॑ दान॒वस्य॑ मा॒या अपा॑दयत्पपि॒वान्त्सु॒तस्य॑ ॥

पदपाठः

अरो॑रवीत् । वृष्णः॑ । अ॒स्य॒ । वज्रः॑ । अमा॑नुषम् । यत् । मानु॑षः । नि॒ऽजूर्वा॑त् ।
नि । मा॒यिनः॑ । दा॒न॒वस्य॑ । मा॒याः । अपा॑दयत् । प॒पि॒ऽवान् । सु॒तस्य॑ ॥

सायणभाष्यम्

वृष्णः कामानांवर्षकस्येन्द्रस्यवज्रः अरोरवीत् भृशंशब्दमकरोत् कदेत्यपेक्षायामाह—यद्यदाअ- मानुषंमनुष्याणांरहितं यद्वा मानुषोहंनभवामीत्येवंमन्यमानं तमसुरं मानुषोमनुष्याणांहितकारी यद्वा मतिमानिन्द्रोनिजूर्वात् नितरांहिंस्यात् जिघांसतीत्यर्थः जूर्वतोर्हिसाकर्मणोलेटिरूपं सुतस्या- भिषुतंसोमंपपिवान्पीतवान्मायिनोमायाविनोदानवस्यदानुर्नामवृत्रमाता दानुःशयइत्यादिषुदृष्ट- त्वात् तस्याःपुत्रस्यवृत्रस्यमायाः वंचनानिन्यपादयत् न्यपातयत् बबाधइतिया वत् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः