मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् १२

संहिता

त्वे इ॒न्द्राप्य॑भूम॒ विप्रा॒ धियं॑ वनेम ऋत॒या सप॑न्तः ।
अ॒व॒स्यवो॑ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते॑ रा॒यो दा॒वने॑ स्याम ॥

पदपाठः

त्वे इति॑ । इ॒न्द्र॒ । अपि॑ । अ॒भू॒म॒ । विप्राः॑ । धिय॑म् । व॒ने॒म॒ । ऋ॒त॒ऽया । सप॑न्तः ।
अ॒व॒स्यवः॑ । धी॒म॒हि॒ । प्रऽश॑स्तिम् । स॒द्यः । ते॒ । रा॒यः । दा॒वने॑ । स्या॒म॒ ॥

सायणभाष्यम्

हेइन्द्र विपामेधानिवोवयंत्वेत्वयित्वद्धृदयेअभूम अपिसानुनयप्रश्नेवर्तते तेतवहृदयेकिंवर्ता- महइति ऋतयाऋतंकर्मफलंतत्कामनयासपन्तः त्वांपरिचरणाख्येनकर्मणास्पृशन्तोवयंधियं त्व- दुद्देशेनक्रियमाणंकर्मवनेम संभजेमहि वनषणसंभक्तौ आशीर्लिङिलिङ्याशिष्यङित्यङ्प्रत्ययः किञ्च अवस्यवः त्वत्तोरक्षणमिच्छन्तः प्रशस्तिंशस्तिःशंसनं प्रकृष्टशंसनंस्तोत्रं धीमहि त्वयिनिदधी- महि ततः तेत्वदीयस्यरायोधनस्यदावनेदानायपात्रभूताः सद्यः स्याम इदानीं भवेम ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः