मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् १४

संहिता

रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इन्द्र॒ मारु॑तं नः ।
स॒जोष॑सो॒ ये च॑ मन्दसा॒नाः प्र वा॒यवः॑ पा॒न्त्यग्र॑णीतिम् ॥

पदपाठः

रासि॑ । क्षय॑म् । रासि॑ । मि॒त्रम् । अ॒स्मे इति॑ । रासि॑ । शर्धः॑ । इ॒न्द्र॒ । मारु॑तम् । नः॒ ।
स॒ऽजोष॑सः । ये । च॒ । म॒न्द॒सा॒नाः । प्र । वा॒यवः॑ । पा॒न्ति॒ । अग्र॑ऽनीतिम् ॥

सायणभाष्यम्

हेइन्द्र क्षयं क्षियन्तिनिवसन्त्यत्रैतिक्षयोगृहं तदस्मभ्यंरासिदेहि तथामित्रं सखायं अस्मेअस्मभ्यं- रासि वाक्यभेदादनिघातः मारुत मरुतांदेवविशांसंबन्धिशर्धोबलंनोस्मभ्यंरासि एतेनमरुतामप्या- गमनंप्रार्थ्यते येचमरुतः सजोषसः सहप्रीयमाणाः मन्दसानामदन्तोमोदमानावायवोयज्ञं प्रतिगन्ता- रःसन्तः अग्रणीतिं अग्नेनीयमानं सोमं प्रपांति प्रकर्षेणपिबन्ति तेषांशर्धइतिसमन्वयः यद्वा येचवा- यवोग्रेनीयमानं सोमंपिबन्ति तेषांवायूनां बलंरासि वायवइतिपूजायांबहुवचनं वायुर्हिसोमस्याग्र- पातेति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः